हिंदू धर्म में दुर्गा सप्तशती को बहुत ही पवित्र और शक्तिशाली ग्रंथ माना जाता है।
इसमें देवी दुर्गा की महिमा, उनकी शक्तियों और उनके द्वारा राक्षसों के विनाश की कथा का वर्णन किया गया है।
यह ग्रंथ सप्तशती यानी 700 श्लोकों का संग्रह है, जो मार्कंडेय पुराण का एक भाग है।
इसका पाठ विशेष रूप से नवरात्रि, चंद्र ग्रहण, अमावस्या या संकट के समय किया जाता है।
ऐसा माना जाता है कि दुर्गा सप्तशती का नियमित पाठ करने से भय, रोग, दरिद्रता और शत्रुओं से मुक्ति मिलती है और जीवन में सुख-समृद्धि आती है।
दुर्गा सप्तशती पाठ की विधि
दुर्गा सप्तशती का पाठ करने से पहले पवित्रता और संयम का बहुत महत्व है।
पाठ करने वाले व्यक्ति को स्नान करके स्वच्छ वस्त्र धारण करने चाहिए।
पूजा स्थल को गंगाजल से शुद्ध करें और देवी दुर्गा की मूर्ति या चित्र स्थापित करें।
इसके बाद दीपक जलाएं, चंदन, चावल, फूल, धूप और दीप से पूजा करें।
पाठ से पहले ‘अर्गला स्तोत्र’, ‘कीलक स्तोत्र’ और ‘कवच’ का पाठ करें, फिर क्रम से मुख्य 13 अध्यायों का पाठ करें।
यदि पूरा पाठ संभव न हो तो केवल नवचंडी पाठ (13 अध्याय) या एक अध्याय भी भक्तिपूर्वक किया जा सकता है।
पाठ के अंत में ‘देव्यः कवचम’, ‘अर्गला’, ‘कीलक’, ‘सूक्त’ और ‘आरती’ का पाठ करें।
पाठ के दौरान नियम, उच्चारण की शुद्धता और मन की एकाग्रता आवश्यक है।
इसे विशेष रूप से नवरात्रि के दौरान देवी की कृपा शीघ्र प्राप्त करने के लिए किया जाता है।
दुर्गा सप्तशती के अध्याय 2 के बारे में
दुर्गा सप्तशती, विशेष रूप से दूसरा अध्याय (अध्याय 2), देवी दुर्गा और राक्षस महिषासुर के बीच युद्ध पर केंद्रित है।
इसमें विस्तार से वर्णन किया गया है कि कैसे महिषासुर से पराजित देवता सर्वोच्च देवी की शरण लेते हैं, जो तब दुर्गा के रूप में प्रकट होती हैं।
इस अध्याय में दुर्गा की शक्ति और उनकी विशाल सेना के निर्माण पर प्रकाश डाला गया है, जिसमें विभिन्न देवता शामिल हैं जो युद्ध में उनके साथ शामिल होते हैं।

पढ़े: अर्गला कीलक व देवी कवचम् और दुर्गा सप्तशती अध्याय 1
॥ २. महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः ॥
विनियोगः
अस्य श्री मध्यमचरित्रस्य विष्णुरृषिः ।
श्रीमहालक्ष्मीर्देवता ।
उष्णिक् छन्दः । शाकम्भरी शक्तिः । दुर्गा बीजम् ।
वायुस्तत्त्वम् ।
यजुर्वेदः स्वरूपम् । श्रीमहालक्ष्मीप्रीत्यर्थे
मध्यमचरित्रजपे विनियोगः ।
। ध्यानम् ।
ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥
ॐ ह्रीं ऋषिरुवाच ॥ २.१॥
देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा ।
महिषेऽसुराणामधिपे देवानां च पुरन्दरे ॥ २.२॥
तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् ।
जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः ॥ २.३॥
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् ।पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ॥ २.४॥
यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् ।त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥ २.५॥
सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च ।अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति ॥ २.६॥
स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि ।विचरन्ति यथा मर्त्या महिषेण दुरात्मना ॥ २.७॥
एतद्वः कथितं सर्वममरारिविचेष्टितम् ।शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ॥ २.८॥
इत्थं निशम्य देवानां वचांसि मधुसूदनः ।चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ॥ २.९॥
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः ।निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ॥ २.१०॥
अन्येषां चैव देवानां शक्रादीनां शरीरतः ।निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥ २.११॥
अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् ।ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥ २.१२॥
अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् ।एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥ २.१३॥
यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् ।याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥ २.१४॥
सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् ।वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ॥ २.१५॥
ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा ।वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ॥ २.१६॥
तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा ।नयनत्रितयं जज्ञे तथा पावकतेजसा ॥ २.१७॥
भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च ।अन्येषां चैव देवानां सम्भवस्तेजसां शिवा ॥ २.१८॥
ततः समस्तदेवानां तेजोराशिसमुद्भवाम् ।तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः ।ततो देवा ददुस्तस्यै स्वानि स्वान्यायुधानि च ॥ २.१९॥
शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् ।चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः ॥ २.२०॥
शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः ।मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ॥ २.२१॥
वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः ।ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् ॥ २.२२॥
कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ ।प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् ॥ २.२३॥
समस्तरोमकूपेषु निजरश्मीन् दिवाकरः ।कालश्च दत्तवान् खड्गं तस्यै चर्म च निर्मलम् ॥ २.२४॥
क्षीरोदश्चामलं हारमजरे च तथाम्बरे ।चूडामणिं तथा दिव्यं कुण्डले कटकानि च ॥ २.२५॥
अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु ।नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् ॥ २.२६॥
अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च ।विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् ॥ २.२७॥
अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम् ।अम्लानपङ्कजां मालां शिरस्युरसि चापराम् ॥ २.२८॥
अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् ।हिमवान् वाहनं सिंहं रत्नानि विविधानि च ॥ २.२९॥
ददावशून्यं सुरया पानपात्रं धनाधिपः ।शेषश्च सर्वनागेशो महामणिविभूषितम् ॥ २.३०॥
नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् ।अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा ॥ २.३१॥
सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः ।तस्या नादेन घोरेण कृत्स्नमापूरितं नभः ॥ २.३२॥
अमायतातिमहता प्रतिशब्दो महानभूत् ।चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे ॥ २.३३॥
चचाल वसुधा चेलुः सकलाश्च महीधराः ।जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ॥ २.३४॥
तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः ।दृष्ट्वा समस्तं सङ्क्षुब्धं त्रैलोक्यममरारयः ॥ २.३५॥
सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः ।आः किमेतदिति क्रोधादाभाष्य महिषासुरः ॥ २.३६॥
अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः ।स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा ॥ २.३७॥
पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् ।क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् ॥ २.३८॥
दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् ।ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् ॥ २.३९॥
शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् ।महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ॥ २.४०॥
युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः ।रथानामयुतैः षड्भिरुदग्राख्यो महासुरः ॥ २.४१॥
अयुध्यतायुतानां च सहस्रेण महाहनुः ।पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः ॥ २.४२॥
अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे ।गजवाजिसहस्रौघैरनेकैः परिवारितः ॥ २.४३॥
वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत ।बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः ॥ २.४४॥
युयुधे संयुगे तत्र रथानां परिवारितः ।अन्ये च तत्रायुतशो रथनागहयैर्वृताः ॥ २.४५॥
युयुधुः संयुगे देव्या सह तत्र महासुराः ।कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा ॥ २.४६॥
हयानां च वृतो युद्धे तत्राभून्महिषासुरः ।तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा ॥ २.४७॥
युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः ।केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे ॥ २.४८॥
देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः ।सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥ २.४९॥
लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी ।अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ॥ २.५०॥
मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी ।
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ॥ २.५१॥
चचारासुरसैन्येषु वनेष्विव हुताशनः ।
निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका ॥ २.५२॥
त एव सद्यः सम्भूता गणाः शतसहस्रशः ।
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः ॥ २.५३॥
नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः ।
अवादयन्त पटहान् गणाः शङ्खांस्तथापरे ॥ २.५४॥
मृदङ्गांश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे ।
ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः ॥ २.५५॥
खड्गादिभिश्च शतशो निजघान महासुरान् ।
पातयामास चैवान्यान् घण्टास्वनविमोहितान् ॥ २.५६॥
असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् ।
केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे ॥ २.५७॥
विपोथिता निपातेन गदया भुवि शेरते ।
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ॥ २.५८॥
केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि ।
निरन्तराः शरौघेण कृताः केचिद्रणाजिरे ॥ २.५९॥
श्येनानुकारिणः प्राणान् मुमुचुस्त्रिदशार्दनाः ।
केषाञ्चिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे ॥ २.६०॥
शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः ।
विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः ॥ २.६१॥
एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः ।
छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः ॥ २.६२॥
कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः ।
ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः ॥ २.६३॥
कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः ।
तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः ॥ २.६४॥
पातितै रथनागाश्वैरसुरैश्च वसुन्धरा ।
अगम्या साभवत्तत्र यत्राभूत् स महारणः ॥ २.६५
शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्रुवुः ।
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥ २.६६॥
क्षणेन तन्महासैन्यमसुराणां तथाम्बिका ।
निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् ॥ २.६७॥
स च सिंहो महानादमुत्सृजन् धुतकेसरः ।
शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥ २.६८॥
देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः ।
यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि ॥ २.६९॥
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः ॥ २॥
उवाच १, अर्धश्लोकाः ६८, श्लोकाः ६९, एवमादितः ॥ १७३॥